Wed. Oct 16th, 2024

नैष्कर्म्यसिद्धिः – अज्ञानिप्रवर्तनम्

मृत्स्नेभके यथेभत्वं शिशुरध्यस्य वल्गति ।
अध्यस्याऽऽत्मनि देहादीन्मूढस्तद्वद्विचेष्टते ॥५९॥

इभत्वशून्येऽपि मृत्स्नेभके = मृन्निर्मितकलभाकारविशेषे, इभत्वंं = सत्यगजत्वम्, अध्यस्य = भ्रान्त्या अध्यारोप्य, शिशुः = बालः, वल्गति = गच्छति, सत्यगज इवाचरित यथा तद्वदेव मूढ: = आत्मज्ञानशून्य:, आत्मनि देहादिरहितेऽपि देहादीनध्यस्य "अहं देही" इति मिथ्याभिनिवेशेन निमित्तेन कामेन विचेष्टते = कर्म करोति।

Related Post