Wed. Oct 16th, 2024

विवेकचूडामणिः – आत्मचिन्तनविधानम् ।

विवेकचूडामणिः – आत्मचिन्तनविधानम् ।

चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन । 
अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥ 408 ॥

अयं विकल्पः चित्तं बहिर्मुखं मनः मूलं यस्य सः चित्तमूलः । चित्ताभावे सुषुप्तौ न कश्चन । अतः स्वरूपसती अविद्यापि चित्ताभावे न स्वकार्यसमर्था । सा जाग्रत्स्वप्नयोः चित्तात्मना परिणममाना विश्वं जनयति । अतः चित्तं प्रत्यग्रूपे तव स्वरूपभूते परात्मनि समाधेहि संस्थापय , तेन अविद्यया साकं सर्वेषां विकल्पानां बाध एव इति भावः ।

Related Post